॥ श्री श्री राधारससुधानिधिः ॥
निन्दन्तं पुलकोत्करेण विकसन्नीपप्रसूनच्छविं
प्रोर्ध्वीकृत्य भुजद्वयं हरि हरीत्युच्चैर्वदन्तं मुहुः ।
नृत्यन्तं द्रुतमश्रुनिर्झरचयैः सिञ्चन्तमुर्वीतलं
गायन्तं निजपार्षदैः परिवृतं श्रीगौरचन्द्रं नुमः ॥ १ ॥
यस्याः कदापि वसनाञ्चलखेलनोत्थ
धन्यातिधन्यपवनेन कृतार्थमानी ।
योगीन्द्रदुर्गमगतिर्मधुसूदनोऽपि
तस्या नमोऽस्तु वृषभानुभुवो दिशेऽपि ॥ २ ॥
ब्रह्मेश्वरादिसुदुरूहपदारविन्द
श्रीमत्परागपरमाद्भुतवैभवायाः ।
सर्वार्थसाररसवर्षिकृपार्द्रदृष्टेस्-
तस्या नमोऽस्तु वृषभानुभुवो महिम्ने ॥ ३ ॥
यो ब्रह्मरुद्रशुकनारदभीष्ममुख्यैर्-
आलक्षितो न सहसा पुरुषस्य तस्य ।
सद्योवशीकरणचूर्णमनन्तशक्तिं
तं राधिकाचरणरेणुमनुस्मरामि ॥ ४ ॥
आधाय मूर्धनि यद् आपुरुदारगोप्यः
काम्यं पदं प्रियगुणैरपि पिच्छमौलेः ।
भावोत्सवेन भजतां रसकामधेनुं
तं राधिकाचरणरेणुमहं स्मरामि ॥ ५ ॥
दिव्यप्रमोदरससारनिजाङ्गसङ्ग
पीयूषवीचिनिचयैरभिषेचयन्ती ।
कन्दर्पकोटिशरमूर्च्छितनन्दसूनु
सङ्जीवनी जयति कापि निकुञ्जदेवी ॥ ६ ॥
तन् नः प्रतिक्षणचमत्कृतचारुलीला
लावण्यमोहनमहामधुराङ्गभङ्गि ।
राधाननं हि मधुराङ्गकलानिधानम्
आविर्भविष्यति कदा रससिन्धुसारम् ॥ ७ ॥
यत् किङ्करीषु बहुशः खलु काकुवाणी
नित्यं परस्य पुरुषस्य शिखण्डमौलेः ।
तस्याः कदा रसनिधेर्वृषभानुजायास्-
तत्केलिकुण्जभुवनाङ्गणमार्जनी स्याम् ॥ ८ ॥
वृन्दानि सर्वमहतामपहाय दूराद्
वृन्दाटवीमनुसर प्रणयेन चेतः ।
सत्तारणीकृतसुभावसुधारसौघं
राधाभिधानमिह दिव्यनिधानमस्ति ॥ ९ ॥
केनापि नागरवरेण पदे निपत्य
सत्प्रार्थितैकपरिरम्भरसोत्सवायाः ।
सभ्रूविभङ्गमैत्रङ्गनिधेः कदा ते
श्रीराधिके नहि नहीति गिरः शृणोमि ॥ १० ॥
यत्पादपद्मनखमणिचन्द्रच्छटाया
विस्फूर्जितं किमपि गोपवधूस्वदर्शि ।
पूर्णानुरागरससागरसारमूर्तिः
सा राधिका मयि कदापि कृपां करोतु ॥ ११ ॥
उज्जृम्भमाणरसवारिनिधेस्तरङ्गैर्-
अङ्गैरिव प्रणयलोलविलोचनायाः ।
तस्याः कदा नु भविता मयि पुण्यदृष्टिर्-
वृन्दाटवीनवनिकुञ्जगृहाधिदेव्याः ॥ १२ ॥
वृन्दावनेश्वरि तवैव पदारविन्दं
प्रेमामृतैकमकरन्दरसौघपूर्णम् ।
हृद्यर्पितं मधुपतेः स्मरतापमुग्रं
निर्वापयत् परमशीतलमाश्रयामि ॥ १३ ॥
राधाकरावचितपल्लववल्लरीके
राधापदाङ्कविलसन्मधुरस्थलीके ।
राधा यशोमुखरमत्तखगावलीके
राधाविहारविपिने रमतां मनो मे ॥ १४ ॥
कृष्णामृतं चल विगाढुमितीरिताहं
तावत् सहस्व रजनी सखि यावद् एति ।
इत्थं विहस्य वृषभानुसुताह लप्स्ये
मानं कदा रसदकेलिकदम्बजातम् ॥ १५ ॥
पादाङ्गुलीनिहितदृष्टिमपत्रपिष्णुं
दूराद् वीक्ष्य रसिकेन्द्रमुखेन्दुबिम्बम् ।
वीक्षे चलत्पदगतिं चरिताभिरामां
झङ्कारनूपुरवतीं बत कर्हि राधाम् ॥ १६ ॥
उज्जागरं रसिकनागरसङ्गरङ्गैः
कुञ्जोदरे कृतवती नु मुदा रजन्याम् ।
सुस्नापिता हि मधुनैव सुभोजिता त्वं
राधे कदा स्वपिषि मत्करलालिताङ्घ्रिम् ॥ १७ ॥
विदग्ध्यसिन्धुरनुरागरसैकसिन्धुर्-
वात्सल्यसिन्धुरतिसान्द्रकृपैकसिन्धुः ।
लावण्यसिन्धुरमृतच्छविरूपसिन्धुः
श्रीराधिका स्फुरतु मे हृदि केलिसिन्धुः ॥ १८ ॥
दृष्ट्वैव चम्पकलतेव चमत्कृताङ्गी
वेणुध्वनिं क्व च निशम्य च विह्वलाङ्गी ।
सा श्यामसुन्दरगुणैरनुल्गीयमानैः
प्रीता परिष्वजतु मां वृषभानुपुत्री ॥ १९ ॥
श्रीराधिके सुरतरङ्गि नितम्बभागे
काञ्चीकलापकलहंस कलानुलापैः ।
मञ्जीरशिञ्जितमधुव्रतगुञ्जिताङ्घ्रि
पङ्केरुहैः शिशिरय स्वरसच्छटाभिः ॥ २० ॥
श्रीराधिके सुरतरङ्गि दिव्यकेलि
कल्लोलमालिनि लसद्वदनारविन्दे ।
श्यामामृताम्बुनिधिसङ्गमतीव्रवेगि
न्यावर्तनाभिरुचिरे मम सन्निधेहि ॥ २१ ॥
सत्प्रेमसिन्धुमकरन्दरसौघधारा
सारान् अजस्रमभितः स्रवदाश्रितेषु ।
श्रीराधिके तव कदा चरणारविन्दं
गोविन्दजीवनधनं शिरसा वहामि ॥ २२ ॥
सङ्केतकुञ्जमनु कुञ्जरमन्दगामि
न्यादाय दिव्यमृदुचन्दनगन्धमाल्यम् ।
त्वां कामकेलिरभसेन कदा चलन्तीं
राधेऽनुयामि पदवीमुपदर्शयन्ती ॥ २३ ॥
गत्वा कलिन्दतनयाविजनावतारम्
उद्वर्तयन्त्यमृतमङ्गमनङ्गजीवम् ।
श्रीराधिके तव कदा नवनागरेन्द्रं
पश्यामि मग्ननयनं स्थितमुच्चनीपे ॥ २४ ॥
सत्प्रेमराशिसरसो विकसत्सरोजं
स्वानन्दसीधुरससिन्धुविवर्धनेन्दुम् ।
तच्छ्रीमुखं कुटिलकुन्तलभृङ्गजुष्टं
श्रीराधिके तव कदा नु विलोकयिष्ये ॥ २५ ॥
लावण्यसाररससारसुखैकसारे
कारुण्यसारमधुरच्छविरूपसारे ।
वैदग्ध्यसाररतिकेलिविलाससारे
राधाभिधे मम मनोऽखिलसारसारे ॥ २६ ॥
चिन्तामणिः प्रणमतां व्रजनागरीणां
चूडामणिः कुलमणिर्वृषभानुनाम्नः ।
सा श्यामकामवरशान्तिमणिर्निकुञ्ज
भूषामणिर्हृदयसम्पूटसन्मणिर्नः ॥ २७ ॥
मञ्जुस्वभावमधि कल्पलतानिकुञ्जं
व्यञ्जन्तमद्भुतकृपारसपुञ्जमेव ।
प्रेमामृताम्बुधिमगाधमबाधमेतं
राधाभिधं द्रुतमुपाश्रय साधु चेतः ॥ २८ ॥
श्रीराधिकां निजविटेन सहालपन्तीं
शोणाधरप्रसृमरच्छविमञ्जरीकाम् ।
सिन्दूरसंवलितमौक्तिकपङ्क्तिशोभां
यो भावयेद् दशनकुन्दवतीं स धन्यः ॥ २९ ॥
पीतारुणच्छविमनन्ततडिल्लताभां
प्रौढानुरागमदविह्वलचारुमूर्तिम् ।
प्रेमास्पदां व्रजमहीपतितन्महिष्योर्-
गोविन्दमनसि तं निदधामि राधाम् ॥ ३० ॥
निर्माय चारुमुकुटं नवचन्द्रकेण
गुञ्जाभिरारचितहारमुपाहरती ।
वृन्दाटवी नवनिकुञ्जगृहाधिदेव्याः
श्रीराधिके तव कदा भवतास्मि दासी ॥ ३१ ॥
सङ्केतकुञ्जमनुपल्लवमास्तरीतुं
तत्तत्प्रसादमभितः खलु संवरीतुम् ।
त्वां श्यामचन्द्रमभिसारयितुं धृताशे
श्रीराधिके मयि विधेहि कृपाकटाक्षम् ॥ ३२ ॥
दूराद् अपास्य स्वजनान् सुखमर्थकोटिं
सर्वेषु साधनवरेषु चिरं निराशः ।
वर्षन्तमेव सहजाद्भुतसौख्यधारां
श्रीराधिकाचरणरेणुमहं स्मरामि ॥ ३३ ॥
वृन्दाटवीप्रकटमन्मथकोटिमूर्तेः
कस्यापि गोकुलकिशोरनिशाकरस्य ।
सर्वस्वसम्पुटमिव स्तनशातकुम्भ
कुम्भद्वयं स्मर मनो वृषभानुपुत्र्याः ॥ ३४ ॥
सान्द्रानुरागरससारसरःसरोजं
किं वा द्विधा मुकुलितं मुखचन्द्रभासा ।
तन्नूतनस्तनयुगं वृषभानुजायाः
स्वानन्दसीधुमकरन्दघनं स्मरामि ॥ ३५ ॥
क्रीडासरःकनकपङ्कजकुट्मलाय
स्वानन्दपूर्णरसकल्पतरोः फलाय ।
तस्मै नमो भुवनमोहनमोहनाय
श्रीराधिके तव नवस्तनमण्डलाय ॥ ३६ ॥
पत्रावलीं रचयितुं कुचयोः कपोले
बन्धुं विचित्रकवरीं नवमल्लिकाभिः ।
अङ्गं च भूषयितुमाभरणैर्धृताशे
श्रीराधिके मयि विधेहि कृपावलोकम् ॥ ३७ ॥
श्यामेति सुन्दरवरेति मनोहरेति
कन्दर्पकोटिललितेति सुनागरेति ।
सोत्कण्ठमह्नि गृणती मुहुराकुलाक्षी
सा राधिका मयि कदा नु भवेत् प्रसन्ना ॥ ३८ ॥
वेणुः करान् निपतितः स्खलितं शिखण्डं
भ्रष्टं च पीतवसनं व्रजराजसूनोः ।
यस्याः कटाक्षशरघातविमूर्च्छितस्य
तां राधिकां परिचरामि कदा रसेन ॥ ३९ ॥
तस्या अपाररससारविलासमूर्तेर्-
आनन्दकन्दपरमाद्भुतसौम्यलक्ष्म्याः ।
ब्रह्मादिदुर्गमगतेर्वृषभानुजायाः
कैङ्कर्यमेव मम जन्मनि जन्मनि स्यात् ॥ ४० ॥
पूर्णानुरागरसमूर्तितडिल्लताभं
ज्योतिः परं भगवतो रतिमद्रहस्यम् ।
यत् प्रादुरस्ति कृपया वृषभानुगेहे
स्यात् किङ्करी भवितुमेव ममाभिलाषः ॥ ४१ ॥
प्रेमोल्लसद्रसविलासविकाशकन्दं
गोविन्दलोचनवितृप्तचकोरपेयम् ।
सिञ्चन्तमद्भुतरसामृतचन्द्रीर्कौघैः
श्रीराधिकावदनचन्द्रमहं स्मरामि ॥ ४२ ॥
सङ्केतकुञ्जनिलये मृदुपल्लवेन
कॢप्ते कदापि नवसङ्गभयत्रपाढ्याम् ।
अत्याग्रहेण कववारिरुहे ग्र्हीत्वा
नेष्ये विटेन्द्रशयने वृषभानुपुत्रीम् ॥ ४३ ॥
सुगन्धमाल्यनवचन्द्रलवङ्गसङ्ग
ताम्बूलसम्पुटमधीश्वरि मां वहन्तीम् ।
श्यामं तमुन्मदरसाद् अभिसंसरन्ती
श्रीराधिके करुणयानुचरीं विधेहि ॥ ४४ ॥
श्रीराधिके तव नवोद्गमचारुवृत्त
वक्षोजमेव मुकुलद्वयलोभनीयम् ।
श्रोणीं दधद्रसगुणैरुपचीयमानं
कैशोरकं जयति मोहनचित्तचौरम् ॥ ४५ ॥
संलापमुच्छलदनङ्गतरङ्गमाला
सङ्क्षोभितेन वपुषा व्रजनागरेण ।
प्रत्यक्षरं क्षरदपाररसामृताब्धिं
श्रीराधिके तव कदान् नु शृणोम्यदूरात् ॥ ४६ ॥
अङ्कस्थितेऽपि दयिते किमपि प्रलापं
हा मोहनेति मधुरं विदधत्यकस्मात् ।
श्यामानुराग मदविह्वलमोहनाङ्गी
श्यामामणिर्जयति कापि निकुञ्जसीम्नि ॥ ४७ ॥
कुञ्जान्तरे किमपि जातरसोत्सवायाः
श्रुत्वा तदालापितशिङ्जितमिश्रितानि ।
श्रीराधिके तव रहःपरिचारिकाहं
द्वारस्थिता रसह्रदे पतिता कदा स्याम् ॥ ४८ ॥
वीणां करे मधुमतीं मधुरस्वरां ताम्
आधाय नागरशिरोमणिभावलीलाम् ।
गायन्त्यहो दिनमपारमिवाश्रुवर्षैर्-
दुःखान् नयन्त्यहह सा हृदि मेऽस्तु राधा ॥ ४९ ॥
अन्योन्यहासपरिहासविलासकेली
वैचित्र्यजृम्भितमहारसवैभवेन ।
वृन्दावने विलसतापहृतं विदग्ध
द्वन्द्वेन केनचिद् अहो हृदयं मदीयम् ॥ ५० ॥
महाप्रेमोन्मीलन्नवरससुधासिन्धुलहरी
परीवारैर्विश्वं स्नपयद् इव नेत्रान्तनटनैः ।
तडिन्मालागौरं किमपि नवकैचोरमधुरं
पुरन्ध्रीणां चुडाभरणनवरत्नं विजयते ॥ ५१ ॥
अमन्दप्रेमाङ्कश्लथसकलनिर्बन्धहृदयं
दयापारं दिव्यच्छविमधुरलावण्यललितम् ।
अलक्ष्यं राधाख्यं निखिलनिगमैरप्यतितरां
रसाम्भोधेः सारं किमपि सुकुमारं विजयते ॥ ५२ ॥
दुकूलं बिभ्राणमथ कुचतटे कञ्चुकपटं
प्रसादं स्वामिन्याः स्वकरतलदत्तं प्रणयतः ।
स्थितां नित्यं पार्श्वे विविधपरिचर्यैकचतुरां
किशोरीमात्मानं किमिह सुकुमारीं नु कलये ॥ ५३ ॥
विचिन्वन्ती केशान् क्वचन करजैः कञ्चुकपटं
क्व चाप्यामुञ्चन्ती कुचकनकदीव्यत्कलशयोः ।
सुगुल्फे न्यस्यन्ती क्वचन मणिमञ्जीरयुगलं
कदा स्यां श्रीराधे तव सुपरिचारिण्यहमहो ॥ ५४ ॥
अतिस्नेहाद् उच्चैरपि च हरिनामानि गृणतस्-
तथा सौगन्धाद्यैर्बहुभिरुपचारैश्च यजतः ।
परानन्दं वृन्दावनमनुचरन्तं च दधतो
मनो मे राधायाः पदमृदुलपद्मे निवसतु ॥ ५५ ॥
निजप्राणैश्वर्या यद् अपि दयनीयेन्यमिति मां
मुहुश्चुम्बत्यालिङ्गतिसुरतमाध्व्या मदयति ।
विचित्रां स्नेहर्धिं रचयति तथाप्यद्भुतगतेस्-
तवैव श्रीराधे पदरसविलासे मम मनः ॥ ५६ ॥
प्रीतिं कामपि नाममात्रजनितप्रोद्दामरोमोद्गमां
राधामाधवयोः सदैव भजतोः कौमार एवोज्ज्वलाम् ।
वृन्दारण्यनवप्रसूननिचयान् आनीय कुञ्जान्तरे
गूढं शैशवखेलनैर्बत कदा कार्यो विवाहोत्स्वः ॥ ५७ ॥
विपञ्चितसुपञ्चमं रुचिरवेणुना गायता
प्रियेण सह वीणया मधुरगानविद्यानिधिः ।
करीन्द्रवनसम्मिलन्मदकरिण्युदारक्रमा
कदा नु वृषभानुजा मिलतु भानुजारोधसि ॥ ५८ ॥
सहासवरमोहनाद्भुतविलासरसोत्सवे
विचित्रवरताण्डवश्रमजलार्द्रगण्डस्थलौ ।
कदा नु वरनागरीरसिकशेखरौ तौ मुदा
भजामि पदलालनाल् ललितवीजनं कुर्वती ॥ ५९ ॥
वृन्दारण्यनिकुञ्जमञ्जुलगृहेष् आत्मेश्वरीं मार्गयन्
हा राधे सविदग्धदर्शितपथं किं यासि नेत्यालपन् ।
कालिन्दीसलिले च तत्कुचतटीकस्तूरिकापङ्किले
स्नायं स्नायमहो कुदेहजमलं जह्यां कदा निर्मलः ॥ ६० ॥
पादस्पर्शरसोत्सवं प्रणतिभिर्गोविन्दमिन्दीवर
श्यामं प्रार्थयितुं सुमञ्जुलरहःकुञ्जांश्च सम्मार्जितुम् ।
मालाचन्दनगन्धपूररसवत्ताम्बूलसत्पानकान्य्
आदातुं च रसैकदायिनि तव प्रेष्या कदा स्यामहम् ॥ ६१ ॥
लावण्यामृतवार्तया जगद् इदं सम्प्लावयन्ती शरद्
राकाचन्द्रमनन्तमेव वदनज्योत्स्नाभिरातन्वती ।
श्रीवृन्दावनकुञ्जमञ्जुगृहिणी काप्यस्ति तुच्छामहो
कुर्वाणाखिलसाध्यसाधनकथां दत्त्वा स्वदास्योत्सवम् ॥ ६२ ॥
दृष्ट्या यत्र क्वचन विहिताम्रेडने नन्दसूनोः
प्रत्याख्यानच्छलत उदितोदारसङ्केतदेशा ।
धूर्तेन्द्र त्वद्भयमुपगता सा रहो नीपवाट्यां
नैका गच्छेत् कितव कृतमित्यादिशेत् कर्हि राधा ॥ ६३ ॥
सा भ्रूनर्तनचातुरी निरुपमा सा चारुनेत्राञ्चले
लीलाखेलनचातुरी वरतनोस्तादृग्वचो चातुरी ।
सङ्केतागम चातुरी नवनवक्रीडाकला चातुरी
राधाया जयतात् सखीजनपरीहासोत्सवे चातुरी ॥ ६४ ॥
उन्मीलन्मिथुनानुरागगरिमोदारस्फुरन्माधुरी
धारासारधुरीणदिव्यललितानङ्गोत्सवैः खेलतोः ।
राधामाधवयोः परं भवतु नश्चित्ते चिरार्तिस्पृशोः
कौमारे नवकेलिशिल्पलहरीशिक्षादिदीक्षारसः ॥ ६५ ॥
कदा वा खेलन्तौ व्रजनगरवीथिषु हृदयं
हरन्तौ श्रीराधाव्रजपतिकुमारौ सुकृतिनः ।
अकस्मात् कौमारे प्रकटनवकैशोरविभवौ
प्रपश्यन् पूर्णः स्यां रहसि परिहासादिनिरतौ ॥ ६६ ॥
धम्मिल्लं ते नवपरिमलैरुल्लसत्फुल्लमल्ली
मालं भालस्थलमपि लसत्सान्द्रसिन्दूरबिन्दु ।
दीर्घापाङ्गच्छविमनुपमां चारुचन्द्रांशुहासं
प्रेमोल्लासं तव तु कुचयोर्द्वन्द्वमन्तः स्मरामि ॥ ६७ ॥
लक्ष्मीकोटीविलक्षलक्षणलसल्लीलाकिशोरीशतैर्-
आराध्यं व्रजमण्डलेऽतिमधुरं राधाभिधानं परम् ।
ज्योतिः किञ्चन सिञ्चदुज्ज्वल
रसप्राग्भावमाविर्भवद्
राधे चेतसि भूरिभाग्यविभवैः कस्याप्यहो जृम्भते ॥ ६८ ॥
Comments
Post a Comment